________________
स्वोपज्ञलघुवृत्तिः [२१७] 'प्रयोक्तव्यापारे णिम् । ३ । ४ । २० ।
कुर्वन्तं यः प्रयुङ्क्ते तद्वयापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति, भिक्षा वासयति, राजानमांगमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्र. स्थितो माहिष्मत्यां सूर्यमुद्गमयति ।। २०॥ तुमर्हाद इच्छायां सन् अतत्सनः। ३ । ४ । २१ ।
यो धातुरिषेः कर्म, इषिणैव च समानकर्तृकः स तुमहः, तस्मादिच्छायामर्थे सन् वा स्यात्, न त्विच्छासन्नन्तात् ।चिकीर्षति, जिगमिषति । तुमर्हादिति किम् ? यानेनेच्छति, भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ।। २१ ॥
द्वितीयायाः काम्यः । ३।४ । २२ । द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ॥ २२ ॥
अमाव्ययात् क्यन च । ३ । ४ । २३ । मान्ताव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां
१ कुर्वन्तं प्रेरयतीति कारयति, एवमन्यत्राऽपि । अन्न प्रक्रियायां सकमकधातोर्द्विकर्मकत्वम् , अकर्मकस्य च सकर्मकत्वं भवति । यथा तन्दुलं पवति जिनदत्तः तं प्रेरयतीति पाचयति देवदतः । भिक्षुर्वसति, वसन्तं तं प्रेरयतीति वासयति भिक्षा । चुरादेरस्मिन् णिगि परे णिचो लोप: स्यात्, तेन चोरयतीत्येव प्रयोक्तृव्यापारेऽपि भवति । " ननु च कर्ताऽपि करणादीनां प्रयोजक इति तद्वयापारेऽपि णिग् प्राप्रोति इत्याशङ्कय बृहवृत्ति-तन्न्यासकर्तृभ्यां समाहितं यत् प्रयोक्तृग्रहणसामर्थ्यान्न करणव्यापारे णिग् स्यादित्यर्थः । यदि च व्यापारसामान्ये णिग् स्यात्तदा सूत्रकारः 'व्या गरे णिग् ‘इत्येव सूत्रं कुर्यात्, न चैवं कृतमित्यलं चर्चया॥