SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ [२१६] हैमशब्दानुशासनस्य अचि । ३।४।१५। यडोचि परे लुपू स्यात्। चेच्यः, नेन्यः ॥ १५ ॥ नोतः । ३ । ४ । १६ । उदन्ताद् विहितस्य योऽचि परेलुब्न स्यात्। रोख्यः॥१६॥ चुरादिभ्यो णिच'। ३ । ४ । १७। . एभ्यो धातुभ्यः स्वार्थे णिच् स्यात् । चोरयति । पदयते ॥१७॥ युजार्नवा । ३ । ४ । १०। एभ्यः स्वार्थ णिच् वा स्यात् । योजयति, योजति। साहयति, सहति ॥ १८॥ भूड प्राप्तौ णिडू । ३ । ४ । १९ । भुवः प्राप्त्यर्थात् णिङ् वा स्यात् । भावयते, भवते । प्राप्ताविति किम् ? भवति ॥ १९॥ . णिचो गित्त्वाऽभावेन "ईगितः" (३-३-१०५) सूत्रेण फलवत्कर्त्तरि नाऽऽत्मनेपदं भवति । पाणिनीये व्याकरणे तु..."णिचश्च' (पा. ३-१-१५) इति सूत्रेणाऽऽत्मनेपदमपि भवति । एवं सारस्वतचन्द्रिका चान्द्रमतेऽपि भवति । "शेषात् परस्मै" (पृ० २११)इति सूत्रेण परस्मैपदस । “लघोरुपान्त्यस्य" (४-३.४) सूत्रेण गुणे “एदैतोऽयाय" (१-२-२३ पृ. १२) इति तिप्रत्यये चोरयति सिध्यति । केचित् चुरादेर्विकल्पेन णिगिच्छन्ति । तन्मते चोरति चिन्ततीति रूपमपि भवति । चोरयेत् , चोरयतु, अचोरयत् , धातोर...(३-४-४६) इति चोरयावकार, “णेरनिटि" (४-३-८३) इति सूत्रेण गेलुंग्मवनात् आशिषि चोर्यात् , तादौ चोरयिता, अद्यतन्यां "णिश्रि...(३-४-५८), "मायोंश..."(४-१-२) "उपान्त्यस्यासमान......"(४-२-३५) "लघोर्दीर्घोऽस्वरादेः" (४-१-६४) इति सूत्रः, अचूचुरत् अचूचुरतां अचूचुरनिति रूपाणि वेद्यानि। आत्मनेपदिनि,तुमचूचुरत इत्यनया रीत्या रूपाणि ग्राह्याणि । एवं "प्रयोक्तृव्यापारे" ऽपि रूपपतिर्बोद्धया। णिचि णकारो वृद्धयर्थः । चुरादिराकृतिगणः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy