________________
स्वोपज्ञलघुवृत्तिः [२१५] श्यते, प्रोर्णोनूयते ॥१०॥
गत्यर्थात् 'कुटिले । ३ । ४ । ११ । व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् धातोर्यङ् स्यात् । चक्रम्यते। कुटिल इति किम् ? भृशं कामति ॥११॥ गृ-लुप-सद-चर-जप-जभ-दश-दहो गये ।३।४।१२।
गार्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जञ्जयते, जञ्जभ्यते,दन्दश्यते, दन्दयते । गद्य इति किम् ? साधु जपति, भृशं निगिरति ॥ १२॥
न गृणा-शुभ-रुचः । ३ । ४ । १३ । ____ एभ्यो यङ्न स्यात् । निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते ॥१३॥
बहुलं लुप् । ३ । ४ । १४ । यडो लुप् बहुलं स्यात् । बोभूयते, बोभवीति । बहुलवचनात् क्वचिन्न भवति, लोलूया, पोपूया ॥१४॥
१ कुटिलगत्यर्थानामेव धातूनां यङ् प्रत्ययविधानार्थमिद सूत्रम् । सरलगत्यर्थे तु न यङ्, तत्र तु भृशं पुनः पुनर्वा कामति गच्छतीत्येवं प्रयोगः । कुटिलं कामतीति चक्रम्यते, । चंक्रम्यते। मुः अतोऽनुनासिकस्य ॥ (४-१) ५१ ) "तौ मुमोर्व्यञ्जने स्वौ” (१-३-१४ पृ० १८) इति सूत्राभ्यां वाऽनुनासिको भवति । । २. 'चरफलाम्' (४-१-५३) "जपजम०" (४-१-५२) इति सूत्राभ्यां चरजपादीनामुरन्तो. भवति, "तिचोपान्त्वातोनादुः” (४-१-५४ ) इति सूत्रात् चञ्चूर्यते सिध्यति ।