________________
[२१४] हैमशब्दानुशासनस्य कारार्थ इति किम् ? केतयति ॥ ६ ॥ शान-दान-मान्-वधानिशानाऽऽर्जव-विचार
वैरूप्ये दीघश्चेतः । ३ । ४ । ७। एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात् , दीर्घश्ववैषां द्वित्वे पूर्वस्येतः। शीशांसति, दीदासति, मीमांसते, बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे मा भूत् ? निशानम्, अवदानम्, मानयति, बाधयति ॥७॥
धातोः कण्ड्वादेर्यक् । ३ । ४।८। एभ्यो धातुभ्यः स्वार्थे यक्. स्यात् । कण्डूयति, कण्डूयते, महीयते । धातोरिति किम् ? कण्डूः॥८॥ व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ये यङ्
वा। ३।४।९। गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वं। प्रधानक्रियाया विक्लेदोंदेः क्रियान्तराव्यवधानेनाऽऽवृतिराभीक्ष्ण्यं । तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ?, भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥९॥ अट्यनि-सूत्रिमूत्रि-सूच्यशूर्णोः । ३ । ४ । १० ।
एभ्यो भृशाऽऽभीक्ष्ण्यार्थवृत्तिभ्यो यङ् स्यात् । अटा. ट्यते, अरायते, सोसूत्र्यते, मोमूत्र्यते, सोसूच्यते, अशा. १ पचनादेः ।