SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [११] . पदान्तरगम्ये वा । ३।३।९९ । प्रकान्तसूत्रपश्चके यदात्मनेपदमुक्तं तत् पदान्तरगम्ये फलवकर्तरि वा स्यात् । स्वं शg परिमोहयते, परिमोहयति वा । स्वं यज्ञं यजते, यजति वा । स्वां गां जानीते, जानाति वा । स्वं शत्रुमपवदते, अपवति वा । स्वान् व्रीहीन संयच्छते, संयच्छति वा ॥ ९९ ॥ शेषात् परस्मै । ३ । ३ । १००। - येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्तरि परस्मैपदं स्यात् । भवति, अत्ति ॥१०॥ परानोः कृगः । ३।३ । १०१। _परानुपूर्वात् कृगः कर्तरि परस्मैपदं स्यात् । पराक रोति, अनुकरोति ॥१०१॥ . प्रत्यभ्यतेः क्षिपः । ३ । ३ । १०२ । एभ्यः परात् क्षिपः कर्तरि परस्मैपदं स्यात् । प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति ॥१०२ ॥ प्रादु वहः । ३।३ । १०३ । - अतः कर्तरि परस्मैपदं स्यात् । प्रवहति ॥ १०३ ॥ ... परेर्मेषश्च । ३ । ३ । १०४ । परेः परान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृ. प्यति, परिवहति ॥१०४॥ व्याङ्-परे रमः । ३ । ३ । १०५ । एभ्यः पराद् रमेकर्तरि परस्मैपदं स्यात् । विरमति, ... परस्मैपदविधियंत्र न नियामकस्तत्र तु यथाप्राप्तमात्मनेपदं वा द्वयं वा भवति । यथा करोति कुरुते, प्रकरोति प्रकुरुते, रमते संरमते, वहति वहते ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy