________________
[२१०] हैमशब्दानुशासनस्य परिमुहाऽऽयमाऽऽयस-पाधे-चद-वस-दमाऽद-रुचनृतः
फलवति । ३ । ३ । ९४ । प्रधानफलवति कर्तरि एभ्यो विवक्षितेभ्यो णिगन्तेभ्य आत्मनेपदं स्यात् । परिमोहयते चैत्रम् , आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम्, वादयते बटुम् , वासयते पान्थम् , दमयते अश्वम्, आदयते चैत्रेण, रोचयते मैत्रम् , नर्तयते नटम् ॥ ९४ ॥
ई-गितः। ३ । ३ । ९५।। ईदितो गितश्च धातोः फलवति कर्तर्यात्मनेपदं स्यात्। यजते कुरुते। फलवतीत्येव ? यजन्ति कुर्वन्ति ॥ ९५ ॥
ज्ञोऽनुपसर्गात् ।३।३। ९६ ।। अतः फलवति कर्तर्यात्मनेपदं स्यात् । गां जानीते। फलवतीत्येव ? परस्य गां जानाति ॥ ९६ ॥
वदोऽपात् । ३ । ३ । ९७ । अतः फलवति कर्तर्यात्मनेपदं स्यात् । एकान्तमपवदते । फलवतीत्येव ? अपवदति परं स्वभावात् ॥९७॥
समुदाडो यमेरग्रन्थे । ३ । ३ । ९८ । एभ्यः पराद् यमेरग्रन्थविषये फलवत्कर्तर्यात्मनेपदं स्यात् । संयच्छते व्रीहीन्, उद्यच्छते भारम् , आयच्छते भारम् । अग्रन्थ इति किम् ? 'चिकित्सामुद्यच्छति । फलवतीत्येव ? संयच्छति ॥ ९८॥
१ अदं भक्षणे इत्यस्य णिगन्तं रूपम् । केचिद् ‘अदधातोर्न मन्यन्ते आत्मनेपदम्।
२ बैद्यकान्थे उद्यमं करोति । चिकित्साग्रन्थमवबोद्भुमिच्छतीत्यर्थः ।