SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः [२०९] लीड-लिनोर्चाऽभिभवे चाऽऽत् चाकर्तर्यपि ।३।३ । ९०। आभ्यां णिगन्ताभ्यामर्चाऽभिभवप्रलम्भार्थाभ्यां कर्तर्यात्मनेपदं स्याद् , आत् चानयोरकर्त्तर्यपि। अर्चा, जटाभिरालापयते । अभिभवः, श्येनो वर्तिकामपलापयते । प्रलम्भः, कस्त्वामुल्लापयते ?, अकर्त्तर्यपीति किम् ? जटाभिरालाप्यते जटिलेन ॥ ९ ॥ स्मिड प्रयोक्तुः स्वार्थे । ३ । ३ । ९१ । प्रयोक्तृतोयःस्वार्थः स्मयस्तदर्थात् णिगन्तात् स्मिङः कतर्यात्मनेपदं स्याद्, आचास्याकर्तर्यपि । जटिलो विस्मापयते।प्रयोक्तुःस्वार्थ इति किम् ? रूपेण विस्मापयति । अकर्त्तर्यपीत्येव ? विस्मापनम् ॥ ९१ ॥ बिमेतेर्भीष् च । ३ । ३ । ९२ । प्रयोक्तृतःस्वार्थवृत्तय॑न्ताद् भियः कर्तर्यात्मनेपदं स्याद, अस्य च भीष्, पक्षे आचाकर्तर्यपि। मुण्डो भीषयते, भापयते वा । प्रयोक्तुः स्वार्थ इत्येव ? कुश्चिकया भापयति । अकर्त्तर्यपीत्येव ? भीषा, भापनम् ॥ ९२ ॥ __ मिथ्याकृगोऽभ्यासे । ३।३ । ९३ । - मिथ्यायुक्तात् कृगो ण्यन्तात् क्रियाभ्यासवृत्त्यर्थात् कर्तर्यात्मनेपदं स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति। अभ्यास इति किम् ? सकृत् पंदं मिथ्या कारयति ॥ ९३ ॥ १लीयति लिनात्योरिवर्णस्यऽऽत्त्वं स्यात् । सानुबन्धग्रहणाद् यौजादिकधातुप्रतिषेधः । अर्चा पूजा । प्रलम्भो वञ्चनम् । ... २ पदं स्वरादिदोषयुतं पुनः पुनः पाठयतीत्यर्थः । सकृत्-एकवारम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy