________________
[२०८] हैमशब्दानुशासनस्य स्वेऽङ्गे, आयच्छते, आहते वा पादम् । स्वेऽङ्गे चेति किम् ? आयच्छति रज्जुम् ।। ८६ ॥
व्युदस्तपः । ३ । ३ । ८७ । आभ्यां परात्तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं स्यात्। वितपते। उत्तपते रविः। वितपते। उत्तपते पाणिम् ॥ ८७ ।। अणिकर्मणिकर्तृकाद् णिगोऽस्मृतौ । ३।३ । ८८ ।
अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् कर्तर्यात्मनेपदं स्यात्। आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः। गित् किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः, लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयते हस्तीत्यणिगि मा भूत् । अस्मृताविति किम् ? स्मर. यति वनगुल्मः कोकिलम् ॥ ८८॥
प्रलम्मे गृधि-वञ्चेः । ३ । ३ । ८९ । आभ्यां णिगन्ताभ्यां प्रलम्भनाभ्यां कतर्यात्मनेपदं स्यात् । बटुं गर्द्धयते वञ्चयते वा । प्रलम्भ इति किम् ? श्वान गर्द्धयति ॥ ८९॥