________________
स्वोपज्ञलघुवृत्तिः [२०७] षो जानीते । कर्मण्यसतीत्येव ? तैलं सर्पिषो जानाति ॥ ८२॥
उपात् स्थः । ३।३ । ८३। अतः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव ? राजानमुपतिष्ठति ॥८३॥ समो गम्-ऋच्छि-प्रच्छि-श्रु-विद्-स्वरति-अर्ति-दृशः।
।३।३ । ८४ । संपूभ्य एभ्यः कर्मण्यमति कर्तर्यात्मनेपदं स्यात्। सङ्गच्छते, समृच्छिष्यते, संपृच्छते, संशृणुते, संवित्ते, संस्वरते, समृच्छते, समियते, संपश्यते। कर्मण्यसतीत्येव? सङ्गच्छति मैत्रम् ।। ८४॥
वेः कृगः शब्दे चाऽनाशे। ३ । ३ ।८५।
अनाशार्थाद् विपूर्वात् कृगः कर्मण्यसति, शब्दे च कर्मणि कर्तर्यात्मनेपदं स्यात् । विकुर्वते सैन्धवाः। क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायम् ॥ ८५॥
आङो यम-हनः, स्वेऽङ्गे च ।३।३ । ८६ ।
आङः पराभ्यां यम्हन्भ्यां कर्मण्यसति कर्तुः, स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । आयच्छते, आहते वा।
१ “अर्तीति सामान्यनिर्देशाद् भ्वादिरदादिश्च ( ऋधातुः) गृह्यते' इति वृहवृत्तौ स्पष्टीकरणमस्ति 'समृच्छिष्यते' इति तौदादिकस्य ऋच्छत् धातो रूपं भ्वादिकस्य तु ऋधातोः 'श्रौतिकृवु" (४-२-१०८) इति सूत्रेण ऋच्छादेशः ।