SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ [२०६] हैमशब्दानुशासनस्य विवदन्ते । उपसंभाषा उपसान्त्वनेम् । कर्म्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् । कुलभार्यामुपवदते ॥७८॥ व्यक्तवाचां सहोक्तौ | ३ | ३ | ७९ | व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोच्चारणार्थाद् वदः कर्त्तर्यात्मनेपदं स्यात् । संप्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ।। ७९ ।। विवादे वा | ३ | ३ | ८० | विरुद्धार्थी वादो विवादः, व्यक्तवाचां विवादरूपसोयर्थाद वदः कर्त्तर्यात्मनेपदं वा स्यात् । विप्रवदन्ते faraदन्ति वा मौर्त्ताः । विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोतावित्येव ! मोहत्तों मौहूर्त्तेन क्रमाद् विप्रवदति ॥ ८० ॥ अनोः कर्म्मण्यसति । ३ । ३ । ८१ । व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वाद् वदः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव १ अनुवदति वीणा ॥ ८१ ॥ ज्ञः । ३ । ३ । ८२ । जानातेः कर्म्मण्यसति कर्त्तयत्मनेपदं स्यात् । सर्पि १ उपालम्भो वेति बृहद्वृत्तौ । २ आनातेः सकर्मकत्वेऽपि नात्र सर्पिर्धाकर्मत्वेन विवक्षितं, किन्तु प्रवृत्त करणत्वेन तेन सर्पिषो जानीते' इत्यस्य सर्पिषा करम भोक्तुं प्रवर्तते इत्यर्थे “अशाने ज्ञः षष्ठी” (२-२-८०, पृ० ८०) इति षष्ठी विभक्तिः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy