SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः [२०५] - आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात् । भवति न भवति चेति विधिनिषेधावतिदिश्यते । ईहाश्चक्रे, विभराञ्चकार । कुग इति किम् ? ईक्षामास ।। ७५॥ गन्धनाऽवक्षेप-सेवा-साहस-प्रतियत्न प्रकथनोपयोगे ।३।३ । ७६ । एतदर्थात् कृगः कर्तर्यात्मनेपदं स्यात् , गन्धनं द्रोहेण परदोषोद्घाटनम् , उत्कुरुते। अवक्षेपः कुत्सनम् , दुवृत्तान वकुरुते। सेवा, महामात्रानुपकुरुते।साहसमविमृश्य प्रवृत्तिः, परदारान् प्रकृरुते । प्रतियत्नो गुणान्तराऽऽधानम् , एधोदकस्योपस्कुरुते । प्रकथनम्, जनापवादान् प्रकुरुते । उपयोगो धर्मादौ विनियोगः, शतं प्रकुरुते ॥ ७६ ॥ अधेः प्रसहने । ३ । ३ ७७ । _ अधेः परात् कृगः प्रसहनार्थात् कर्तर्यात्मनेपदं स्यात् । प्रसहनं पराभिभवः परेणपराजयो वा । तं हाधिचक्रे। प्रसहन इति किम् ? तमधिकरोति ॥ ७७ ॥ दीप्ति-ज्ञान-यत्न-विमति-उपसंभाषा-उपमन्त्रणे वदः ।३।३ । ७८ । एष्वर्थेषु गम्येषु वदः कर्तर्यात्मनेपदं स्यात् । दीप्तिभासनम् वदते विद्वान् स्याद्वादे । ज्ञाने, वदते धीमांस्तस्वार्थे । यत्ने, तपसि वदते । नानामतिर्विमतिः , धर्मे १ तमभिभूतवान् इत्यर्थः, तेन परेण नाऽभिभूतो वा । अथवा सहनमुपेक्षा तत्र यथा-'भवादृशाश्चेदधिकुर्वते रतिम्' इति किरातार्जुनीये १-४३।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy