________________
२०४] हैमशब्दानुशासनस्य धर्म जिज्ञासते। अननोरिति किम् ? धर्ममनु जिज्ञासति ॥ ७० ॥
श्रुवोऽनाइ.-प्रतेः। ३ । ३ । ७१ । सन्नन्तात् शृणोतेः कर्तर्यात्मनेपदं स्यात्, न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् ? आशुश्रषति, प्रतिशुश्रूषति ॥ ७१ ॥
स्मृ-दृशः। ३।३ । ७२ । आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं स्यात्। सुस्मूर्षते, दिक्षते ॥ ७२ ॥
शको जिज्ञासायाम् । ३।३। ७३ । शको ज्ञानानुसंहितार्थात् सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥
'प्राग्वत् । ३ । ३।७४ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं स्यात् । शिशयिषते, अश्वेन संचिचरिषते ॥४॥
आमः कृगः । ३।३। ७५ । १ यो धातुरनुबन्धोपपदार्थविशेषादिहेतभिः पर्वमात्मनेपदी स इच्छार्थके सनि परेऽपि पूर्ववत् ताडगेव आत्मनेपदी भवति । 'शिशयिषते' इत्यनुबन्धादाहरणं उकारानुबन्धत्वात्। द्वितीयं तूपपदस्योदाहरणं, समस्तृतीयया' (३-३-३२,) इति सूत्रेण संपू. र्वकवरधातोरात्मने पद विधानात् आचिकंसते चन्द्र इत्यर्थविशेषो: दाहरणम् । एवं अनुबन्धादि निमित्तैर्यो धातुः सन्नन्तात् प्राक परस्मैपदी स्यात् , सोऽपि सनि परे पूर्ववत् परस्मैपदी तिष्ठति यथा बुभूषति, रुरुदिषति, विरमेः-विरिरंसति, प्रवहेः प्रविवक्षति ।