________________
स्वोपज्ञलघुवृत्तिः [२०३] स्थेयविषयार्थे च वर्तमानात् स्थः कर्तर्यात्मनेपदं स्यात् । तिष्ठते कन्या च्छात्रेभ्यः, त्वयि तिष्ठते विवादः ॥६४॥
प्रतिज्ञायाम् । ३ । ३ । ६५ । अभ्युपगमार्थात् स्थः कर्तर्यात्मनेपदं स्यात् । नित्यं शब्दमातिष्ठते ॥ ६५ ॥
समों गिरः। ३ । ३ । ६६ । संपूर्वाद गिरः प्रतिज्ञार्थात् कर्तर्यात्मनेपदं स्यात् । स्याद्वादं सङ्गिरते ॥ ६६ ॥
अवात् । ३ । ३। ६६ । अवाद्गिरः कर्तर्यात्मनेपदं स्यात् । अवगिरते ॥६॥
निनवे ज्ञः । ३ । ३ । ६८ । निह्नवोऽपलापः, तवृत्तेजः कर्तर्यात्मनेपदं स्यात् । शतमपजानीते ॥ ६८ ॥
सं-प्रतेरस्मृतौ । ३ । ३ । ६९।। स्मृतेरन्यार्थात् संप्रतिभ्यां पराद् ज्ञः कर्तर्यात्मनेपदं स्यात् । शतं संजानीते, प्रतिजानीते । अस्मृताविति किम् ? मातुः संजानाति ॥ ६९ ॥
अननोः सनः । ३ । ३ । ७०। सन्नन्ताद ज्ञः कर्तर्यात्मनेपदं स्यात्, नत्वनोः परात्। १ मीमांसकाः शब्दस्य नित्यत्वमेवाभिमन्यन्ते ।
२ गिर इति सूत्रे वचनाद् गृणाते त्मनेपदं स्यात्, किन्तु गृत् निगरणे' इत्यस्य । स्थाद्वादं संगिरते-प्रतिजानीते इति भाव।
३ प्रतिज्ञायामिति निवृत्तं वेदितव्यं, पृथक्सूत्रकरणात् । ४ अनुपूर्वकजिज्ञासधातो त्मनेपदमिति तत्त्वम् ।