SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ [२०२] हैमशब्दानुशासनस्य यमः स्वीकारे।३ । ३ । ५९ । उपाद्यमेः स्वीकारार्थात् कर्तर्यात्मनेपदं स्यात् । कन्यामुपयच्छते, उपायंस्त महास्त्राणि । चिनिर्देश इति किम् ? शाटकानुपयच्छति ॥ ५९ ॥ देवाऽर्चा-मैत्री-सङ्गम-पथिकर्तृक मन्त्रकरणे स्थः ।३।३।६।। एतदर्थादुपपूर्वात् तिष्ठतेः कर्तर्यात्मनेपदं स्यात् । देवार्चा, जिनेन्द्रमुपतिष्ठते । मैत्री, रथिकानुपतिष्ठते । सङ्गमः, यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र, श्रुघ्नमुपतिष्ठते पन्थाः। मन्त्रः करणं यस्म, ऐन्द्रया गार्हपत्यमुपतिष्ठते ॥६॥ वा लिप्सायाम् । ३ । ३ । ६१ । उपात् स्थो लिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्याद् वा । भिक्षुर्दातृकुलमुपतिष्ठते, उपतिष्ठति वा ॥३१॥ उदोऽनूवेहे । ३ । ३ । ६२ । अनूभं या चेष्टा तदर्थाद् उत्पूर्वात् स्थः कर्तर्यात्मनेपदं स्यात् । मुक्तावुत्तिष्ठते । अनूर्वेति किम् ? आसनादुत्तिष्ठति । ईहेति किम् ? ग्रामात शतमुत्तिष्ठति ॥ ६२॥ सं-वि-प्राऽवात् । ३ । ३ । ६३ । एभ्यः परात् स्थः कर्तर्यात्मनेपदं स्यात् । सतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ॥६३ ॥ ज्ञीप्सा-स्थेये । ३ । ३ । ६४ । ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः । ज्ञीप्सायां १ यस्यार्यस्य स पथिकर्तृक इति शेषः तत्र ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy