SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ • स्वोपज्ञलघुवृत्तिः [२०१] . आडो ज्योतिरुद्गमे । ३ । ३ । ५२ । आङः परात् क्रमेश्चन्द्रायुद्गमार्थात् कर्तर्यात्मनेपदं स्यात् । आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् ! आक्रामति बटुः कुतुपम्, धूम आक्रामति ॥५२॥ दागोऽखाऽऽस्यप्रसार-विकाशे । ३।३ । ५३ । स्वाऽऽस्यप्रसारविकाशाभ्यामन्यार्थाद् आपूर्वाद् दागः कर्तर्यात्मनेपदं स्यात् । विद्यामादत्ते। स्वास्यादिवर्जन किम् ? उष्ट्रो मुखं व्याददाति, कूलं व्याददाति ॥ ५३॥ . नु-प्रच्छः । ३ । ३ । ५४ । । आपूर्वाद नीतेः प्रच्छेश्च कर्तर्यात्मनेपदं स्यात् । आनुते शृगालः, आपृच्छते गुरुन् ॥ ५४ ॥ गमेः क्षान्तौ । ३ । ३ । ५५ । कालहरणार्थाद् गमयतेरापूर्वोत्कर्तर्यात्मनेपदं स्यात्। आगमयते गुरुम् ? कश्चित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥ ५५ ॥ हः स्पर्द्ध । ३ । ३ । ५६ । __आयूर्वाद् ह्वयतेः स्पर्द्ध गम्ये कर्तर्यात्मनेपदं स्यात्। मल्लो मल्लमाह्वयते । स्पर्द्ध इति किम्? गामाह्वयति ॥५६ ॥ सं-नि-चेः। ३ । ३ । ५७।। __एभ्यो ह्वयतेः कर्तर्यात्मनेपदं स्यात् । संवयते, निह्वयते, विह्वयते ॥ ५७ ॥ उपात् । ३ । ३ । ५८। उपात् वयतेः कर्तर्यात्मनेपदं स्यात् । उपहयते ॥५०॥ २६
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy