________________
[२००] हैमशब्दानुशासनस्य त्मनेपदं वा स्यात् । वय॑ति, वर्तिष्यते । विवृत्सति, विवर्तिषते । स्यसनोरिति किम् ? वर्तते ॥ ४५ ।।
कृपः श्वस्तन्याम् । ३ । ३ । ४६ । कृपः श्वस्तनीविषये कर्तर्यात्मनेपदं वा स्यात् । कल्प्तासि, कल्पितासे ॥ ४६॥
___ क्रमोऽनुपसर्गात् । ३ । ३ । ४७।
अविद्यमानोपसर्गात् क्रमतेः कर्त्तर्यात्मनेपदं वा स्यात् । क्रमते, कामति । अनुपसर्गादिति किम् ? अनुक्रामति ॥४७॥
वृत्ति-सर्ग-तायने । ३ । ३ ॥४८॥ वृत्तिरप्रतिबन्धः, सर्ग उत्साहः, तायनं स्फीतता, एतवृत्तेः क्रमेः कर्तर्यात्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः, सूत्राय क्रमन्तेऽस्मिन् योगाः॥४८॥
परोपात् । ३ । ३ । ४९। आभ्यामेव परात् क्रमेवृत्त्याद्यर्थात् कर्तर्यात्मनेपदं स्यात् । पराक्रमते, उपक्रमते । परोपादिति किम् ? अनुक्रामति वृत्त्यादावित्येव ? पराक्रामति ।। ४९ ॥
वेः स्वार्थे । ३ । ३ । ५० । स्वार्थः पादविक्षेपः, तदर्थाद् विपूर्वात् क्रमे कर्तर्यात्मनेपदं स्यात्। साधु विक्रमते गजः। स्वार्थ इति किम् ? गजेन विक्रामति ॥ ५० ॥
प्रोपाद् आरम्भे । ३।३ । ५१ । आरम्भार्थात् प्रोपाभ्यां परात् क्रमेः कर्तर्यात्मनेपदं स्यात्। प्रक्रमते, उपक्रमते भोक्तुम्, आरम्भ इति किम् ? प्रक्रामति यातीत्यर्थः ॥ ५१ ॥