________________
स्वोपज्ञलघुवृत्तिः [१९९] विनयते । एष्विति किम् ? अजां नयति ग्रामम् ॥ ३९ ॥
कर्तृस्थामूर्ताऽऽप्यात् । ३ । ३ । ४०। कतृस्थममूर्त कर्म यस्य तस्मानिया कर्तर्यात्मनेपदं स्यात् । श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्यु विनयति । अमूर्तेति किम् ? गडं विनयति । आप्येति किम् ? बुद्धया विनयति ॥ ४० ॥
शदेः शिति । ३ । ३ । ४१ । शिद्विषयात् शदेः कर्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम्.१ शत्स्यति ॥ ४१॥
म्रियतेद्यतन्याशिषि च । ३ । ३ ४२|
अतोऽद्यतन्याशीविषयाच्छिद्विषयाच कर्तर्यात्मनेपदं स्यात् । अमृत, मृषीष्ट, म्रियते । अद्यतन्याशिषि चेति किम् ? ममार ॥ ४२ ॥
क्यषो नवा । ३ । ३ । ४३ । । क्यअन्तात् कर्तर्यात्मनेपदं वा स्यात् । निद्रायति, निद्रायते ॥४३॥
छुट्योऽद्यतन्याम् । ३।३। ४४ । घुतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा स्यात् । गद्युतत्, व्यद्योतिष्ट । अरुचत् , अरोचिष्ट । अद्यतन्या. मिति किम् ? द्योतते ॥ ४४ ॥
वृद्भयः स्य-सनोः । ३ । ३ । ४५ । ___ वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्या
१ वर्तमानादयश्चतस्रो विभक्तयः शितः, तद्विषयात् "श्रौति-कृवु...... " (४-२-१०८) सूत्रेण शदेः शीयाऽऽदेशः । - २ बहुवचनं गणार्थम् । वृतूङ, स्यन्दौङ्, वृधू, शृङ्, कृपौड़ इत्येते पञ्च वृतादयः सन्ति ।