________________
[१९८] हैमशब्दानुशासनस्य
___ आशिषि नाथः । ३ । ३ । ३६ । ___ आशीरादेव नाथेः कर्तर्यात्मनेपदं स्यात् । सपिषो नाथते । आशिषीति किम् ? मधु नाथति ॥ ३६॥
भुनजोत्राणे ।३।३।३७। पालनादन्यार्थाद् भुनक्तेः कर्तर्यात्मनेपदंस्यात्। ओदनं भुङ्क्ते । भुनज इति किम् ? ओष्ठौ निर्भुजति । अत्राण इति किम् ? पृथ्वीं भुनक्ति ॥ ३७॥
हगों गतताच्छील्ये । ३ । ३ । ३८ । गतं सादृश्य, हृगोगतताच्छील्यार्थात् कर्तर्यात्मनेपदं स्यात्। पैत्रकमश्वा अनुहरन्ते, पितुरनुहरन्ते । गत इति किम् ? पितुर्हरति चोरयतीत्यर्थः। ताच्छील्यादिति किम् ? नटो राममनुहरति ॥ ३८ ॥ पूजाऽऽचार्यक-भृत्युत्क्षेप ज्ञान-विगणन-व्यये
नियः । ३ । ३ । ३९। पूजादिषु गम्येषु नियः कर्तर्यात्मनेपदं स्यात्। नयते विद्वान् स्याद्वादे, माणवकमुपनयते, कर्मकरानुपयते, शिशुमुदानयते,नयते तत्त्वार्थे, मद्राः कारं विनयन्ते, शतं
१नाङ धातुरुपतापैश्वर्याऽऽशीर्याचनार्थेषु वर्तते तत्राऽऽशिष्येवार्थे आत्मनेपदं भवति । 'सप्पिषो नाथते' सर्पिर्मे भूयादित्याशास्ते इत्यर्थः ।
२ 'भुजीत्' कोटिल्ये ( हैमधातुपाटः ) इत्यस्य रूपम् ।
३ पूजा-सन्मानः । 'नयते विद्वान् स्याद्वादे' ' पण्डितः स्याद्वादे. जीवादीन् पदार्थान् युक्तिभिर्निश्चित्य शिष्यबुद्धिं प्रापयति, ते च बोधिताः सन्तो भुवि पूजिता भवन्तीत्यस्य तात्पर्यम् । आचार्यस्य भावः कर्म वाऽऽचार्यकम् । भतिवेतनम् । विगणनमृणादेः शोधनम् । व्ययो धर्मादिपु विनियोगः। .