________________
स्वोपज्ञलघुवृत्तिः [१९७] अपस्किरः । ३ । ३ । ३० । अपात् किरतेः सस्सद्कात् कर्तर्यात्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः। सस्सनिर्देशः किम् ? अप किरति । अपेति किम् ? उपस्किरति ॥३०॥ ... उदश्वरः साऽऽप्यात् । ३ । ३ । ३१ ।।
उत्पूर्वाचरेः सकर्मकात् कर्तर्यात्मनेपदं स्यात्।मार्गमु. चरते । साऽऽप्यादिति किम् ? धूम उच्चरति ॥३१॥
समस्तृतीयया । ३ । ३ । ३२ । सम्पूर्वाच्चरेस्तृतीयान्तेन योगेकर्तर्यात्मनेपदं स्यात् । अश्वने सञ्चरते । तृतीययेति किम् ? उभौ लोको सञ्चरसि ॥३२॥ .
क्रीडोऽकूजने । ३ । ३ । ३३ । कूजनमव्यक्तः शब्दः, ततोऽन्यार्थात् संपूर्वात् क्रीडतेः कर्तर्यात्मनेपदं स्यात् । संक्रीडते । सम इत्येव ? क्रीडति। अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥ ३३ ॥
अन्वाङ्-परेः । ३ । ३ । ३४ । एभ्यः परात् क्रीडतेः कर्तर्यात्मनेपदं स्यात् । अनुक्रीडते, आक्रीडते, परिक्रीडते ॥ ३४ ॥
शप उपलम्भने । ३।३।३५ । . उपलम्भनं प्रकाशनं शपथो वा, तदर्थाच्छपतेः कर्तत्मिनेपदं स्यात् । मैत्राय शपते। उपलम्भन इति किम् ? मैत्रं शपति ॥ ३५॥
१ अपात् चतुष्पातपक्षि.. .......” (है• ४-४-९५) सूत्रात् स्वत्प्रत्ययः, तासहितात् किरवेरात्मनेपदं स्यात् ।