________________
[ १९६]
हेमशब्दानुशासनस्य
निविशः । ३ । ३ । २४ ।
नेर्विशः कर्त्तर्यात्मनेपदं स्यात् । निविशते ॥ २४ ॥ उपसर्गाद् अस्योहो वा | ३ | ३ | २५ | उपसर्गात् पराभ्यामस्यत्यहिभ्यां कर्त्तर्यात्मनेपदं वा स्यात् । विपर्यस्य विपर्यस्यति । समूहते, समूहति ॥ २५॥ - उत्-स्वराद् युजेरयज्ञतत्पात्रे | ३ | ३ । २६ । उदः स्वरान्ताचोपसर्गात् पराद् युनक्तेः कर्त्तर्यात्मनेपदं स्यात्, न चेद् यज्ञे यत्तत्पात्रं तद्विषयो युज्यर्थः स्यात् । उद्युक्ते, उपयुङ्क्ते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति
•
॥ २६ ॥
परि व्यवात् क्रियः | ३ | ३ | २७ | एभ्य उपसर्गेभ्यः परात् क्रीणातेः कर्त्तर्यात्मनेपदं स्यात् । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । उपसर्गादित्येव ? उपरिक्रीणाति ॥ २७ ॥
परा-वेर्जेः | ३ | ३ | २८|
आभ्यां परादू जयतेः कर्त्तर्यात्मनेपदं स्यात् । पराजयते, विजयते । उपसर्गाभ्यामित्येव : बहुवि जयति वनम् ॥ २८ ॥
समः क्ष्णोः | ३ | ३ । २९ ।
समः परात् क्ष्णौतेः कर्त्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । सम इति किम् १ क्ष्णौति । उपसर्गादित्येव ? आयसं क्ष्णौति ॥ २९ ॥
१ बहवो वयः - पक्षिणो यत्र तक बहुवि बनम् ।