SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१९५] कटश्चैत्रेण, चक्राणः, क्रियमाणः, भूयते त्वया, भूयमानम्, क्रियते, मृदु पच्यते, कार्यः, कर्तव्यः, करणीयः, देया, कृत्यः कटस्त्वया, शयितव्यम्, शयनीयम्, शेयम्, का. र्यम्, कर्तव्यम्, करणीयम्, देयम्, कृत्यम्, त्वया कृतः कटः, शयितम्, कृतं त्वया, सुकरः कटस्त्वया, सुशयं, सुकरं त्वया, सुकटंकराणि वीरणानि, ईषदाढ्यम्भवं भवता, सुज्ञानं तत्त्वं मुनिना, सुग्लानं दीनेन, मास आस्यते, मासमास्यते ॥२१॥ ____ इङितः कर्तरि । ३ । ३ । २२। इदितो ङितश्च धातोः कर्तर्यात्मनेपदं स्यात् । एधते, एधमाना, शेते,शयानः ॥२२॥ क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो हु-बह श्वाऽनन्योऽन्यार्थे । ३ । ३ । २३ । अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः, तदर्थाद् गतिहिंसाशब्दार्थहस्वर्जाधातोहवहिभ्यां च कर्तर्यात्मनेपदं स्यात् । न त्वन्योऽन्येतरेतर-परस्परशब्दयोगे । व्यतिलुनते, व्यतिहरन्ते, व्यतिवह'न्ते भारम् । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् , चैत्रस्य धान्यं व्यतिलुनन्ति। गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । अनन्योऽन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति । कर्तरीत्येव ? तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात्, व्यतिगम्यन्ते ग्रामाः ॥२३॥ . १ एधते इति इदित एधिधातोः शयते इति डकारेतः शीधातोरुदाहरणम्।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy