________________
[१९४]
हैमशब्दानुशासनस्य
सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । स पचति, तौ पचतः ते पचन्ति । पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ । पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथः, स च त्वं च अहंच पचामः ॥ १७॥
एक द्वि- बहुषु | ३ | ३ | १८ |
अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येकद्विबहुष्वर्थेषु यथासङ्ख्यं स्युः । स पचति, तौ पचतः ते पचन्तीत्यादि ॥ १८ ॥
नवाऽऽद्यानि 'शतृ-क्वसू च परस्मैपदम् | ३ | ३|१९| सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृक्वसू च परस्मैपदानि स्युः । तिव्, तस्, अन्ति । सिव् थ। मिवू, वसू, मस् । एवं सर्वासु ॥ १९ ॥ पराणि कानानशौ चाऽऽत्मनेपदम् | ३ | ३ | २० |
थस्,
सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चाऽऽत्मनेपद (नि स्युः । ते, आते, अन्ते । से, आथे, ध्वे । ए, वहे, महे । एवं सर्वासु ॥ २० ॥
तत् साप्यानाप्यात् कर्मभावे, कृत्य-क्त - खलर्थाश्च
। ३ । ३ । २१ ।
तत् आत्मनेपदं कृत्यक्तखलर्थाश्च प्रत्ययाः सकर्मकाद्धातोः कर्म्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते
१ शतृक्वसू, कानानशौ च कृत्प्रत्ययाः सन्ति ।