________________
स्वोपनलघुत्तिः [१९३]
सीमहि । ३ । ३ । १३ । इमानि वचनानि आशीः स्युः ॥ १३ ॥ श्वस्तनी-ता-तारौ-तारस्, तासि-तास्थस्-तास्थ, तास्मित्तास्वस्न्तास्मस् । ता-तारौ तारम्, तासेतासाथे-ताध्ये, ताहे-तास्वहे-तास्महे ।३।३।१४। इमानि वचनानि श्वस्तनी स्युः ॥ १४ ॥ भविष्यन्ती-स्यति-स्यतस्-स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि-स्यावस्-स्यामस् । स्यते-स्येतेस्यन्ते, स्यसे स्येथे-स्यध्वे, स्ये-स्यावहे-स्या
. महे । ३ । ३ । १५। इमानि क्चनानि भविष्यन्ती स्युः ॥१५॥ क्रियातिपत्तिः-स्यत्-स्याताम्-स्यन, स्यस-स्यतम्-स्यत, स्यम्-स्याव-स्याम । स्यत-स्येताम्-स्यन्त, स्यथास् स्येथाम-स्यध्वम्, स्ये-स्यावहि-स्यामहि ।३।३।१६। इमानि वचनानि क्रियातिपत्तिः स्युः ॥ १६ ॥
त्रीणि त्रीण्यन्य'-युष्मदस्मदि ।३।३।१७) १ पाणिनीयादिसज्ञया प्रथमपुरुषे तच्छन्दवाच्ये इत्यर्थः, यथा स गच्छतीत्यादि । अन्यार्थादीनां द्वयोस्त्रयाणां वा यदा युगपत् प्रयोगस्तदा परार्थमपेक्ष्यैव प्रत्ययाः प्रयोक्तव्याः, यथा त्वं च स च पचवः, इत्यत्र सूत्रोक्तमतो युष्मदर्थः परः (पश्चाद्भूतः) अस्ति, अत एव थस्प्रत्ययः, एवं त्वं चाहं च स च पचामः इत्यादिषु सूत्रोतक्रमापेक्षयैव प्रयोगः कार्यः, न तु प्रयोगक्रमतः, अन्यथात्वं च स च भवतः, इतिप्रयोगो भवेत् , स च दुष्टः। यत्र भवच्छब्दस्त्वमर्थे स्यात्तदाऽन्यार्थक प्रथमं प्रत्ययत्रिकं प्रयोकव्यम् , यथा-भवान् गच्छति पचति भवति वेति । स्त्रियां तु भवती गच्छति इत्यादि ।