________________
.
[२१२] हैमशब्दानुशासनस्य औरंमति, परिरमति ॥ १०५ ॥
वोपात् । ३।३ । १०६ । उपाद् रमेः कर्तरि परस्मैपदं वास्यात् ।भार्यामुपरमति, . उपरमते वा ॥ १०६ ॥ अणिगि प्राणिकर्तृकानाप्यात् 'णिगः। ३ । ३ । १०७। ___ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्मात् णिगन्तात् कर्तरि परस्मैपदं स्यात् । आसयति चैत्रम् । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयु
ङ्क्ते आरोहयते । अणिगिति गकारः किम् ? चेतयमानं प्रयुङ्क्ते चेतयते । प्राणिकर्तृकादिति किम् ? शोषयते वीहीन आतपः। अनाप्यादिति किम् ? कटं कारयते ॥१०७॥
चल्याहारार्थेङ्-बुध युध-गु-द्रु-सु-नश
जनः।३३।१०८। चल्याहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् । चलयति, कम्पयति, भोजयति, आशयति चैत्रमन्नम्, सूत्रमध्यापयति शिष्यम्, बोधयति पद्म रविः, योधयति काष्ठानि, प्रावयति राज्यम्, द्रावयत्ययः, स्रावयति तैलम्, नाशयति पापम् ,जनयति पुण्यम् ॥१०८॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीय__ स्याध्यायस्य तृतीयः पादः समाप्तः ॥३॥३॥
१ “ ईगितः" (३-३-९५ पृ० २१० ) इति सूत्रोफाऽऽत्मनेपदस्य बोधकमदिम् ।