SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयः पादः॥ [अथाऽख्यात प्रकरणम् ] वृद्धिराऽऽरैदौत् । ३ । ३ । १ । आ आर् ऐ औ एते प्रत्येकं वृद्धिः स्युः । मार्टि, कार्यम्, नायकः औपगवः ॥ १ ॥ गुणोऽरेदोत् । ३ । ३ । २। आर् एत् ओत् एते प्रत्येकं गुणः स्युः । कर्ता, चेता, स्तोता ॥२॥ क्रियाऽर्थो धातुः । ३॥ ३ ॥३॥ कृतिः क्रिया पूर्वापरीभूता, सार्थो यस्य स धातुः स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पोपच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ॥३॥ , न प्रादिरप्रत्ययः । ३ । ३ । ४ । प्रादिर्धातोरवयवो न स्यात्, ततःपर एव धातुरित्यर्थः, न चेत्ततः परः प्रत्ययः । अभ्यमनायत, प्रासादीयत् । प्रादिरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? ओत्सुकायत ॥४॥ अवौ दा-धौ दा । ३ । ३ । ५। दाधारूपौ धातू अवितौ दो स्याताम् । दाम्, प्रणि इदं यङन्तोदाहरणम् पुत्रकाम्यतीति नामधातोः. जवन इति कृदन्तस्योदाहरणम्, भ्वादीनां गणानां, णिगन्तादिप्रक्रियान्तानामपि च धातुत्वमस्ति । २ 'व्' इत्यनुबन्धवन्तौ धातू वितौ स्तः, तौ वर्जयित्वा दासज्ञौ भवतः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy