________________
स्वोपज्ञलघुवृत्तिः [१८९] सब्रह्मचारी । ३ । २ । १५०। अयं निपात्यते ॥ १५० ॥
हक-दृश-दक्षे ।३।२।१५१ एषत्तरपदेषु समानस्य सः स्यात् । सहक् सहशः, सहक्षः ॥ १५१॥
अन्य-त्यदादेराः । ३।२।१५२ । अन्यस्य त्यदादेश्व दृगादावुत्तरपदे आः स्यात् । अन्या दृक्, अन्यादृशः, अन्यादृक्षः। त्याहा, त्यादृशः, त्यादृक्षः। अस्माकू, अस्मादृशः, अस्माक्षः ॥१५२ ॥
इदम्-किम इत्-की।३। २ । १५३ । दृगादावुत्तरपदे इदम्-किमो यथासङ्ख्यमीत्कीरूपी स्याताम् । ईदृक्,ईदृशः ईदृक्षः। कीदृक् कीदृशः,कीहक्ष।१५३। ___ अनः क्त्वो यम् । ३।२। १५४ ।
नमोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदंतवयवस्य क्त्वो यप् स्यात् ।प्रकृत्य। अनज इति किम् ?अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव ? अलंकृत्वा ॥१५४ ॥ __ पृषोदरादयः। ३ । २ । १५५।।
एते साधवः स्युः । पृषोदरः, बलाहकः ॥ १५५ ॥ वा-अवाऽप्योः तनि-क्रीधाग्-नहोर्व-पी।३।२।१५६)
अवस्योपसर्गस्य तनिक्रियोरपेश्च धाग्नहोर्यथासङ्ख्यं व-पी वा स्याताम् । वतंसः, अवतंसः।वक्रयः, अवक्रयः। पिहितम्, अपिहितम् । पिनद्धम्, अपिनद्धम् ॥ १५६॥ . इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥३॥२॥
॥ इति समास प्रकरणम् ॥