________________
[१८८] हैमशब्दानुशासनस्य
सहस्य सोऽन्यार्थे । ३ । २ । १४३ । उत्तरपदे परे बहुव्रीही सहस्य सो वा स्यात् । सपुत्रः, सहपुत्रः । अन्यार्थ इति किम् ? सहजः ॥ १४३ ॥
नाम्नि । ३ । २ । १४४ । उत्तरपदे परे बहुव्रीही सहस्य सः संज्ञायां स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव ? सहदेवः कुरुः ॥१४४॥
अदृश्याधिके । ३ । २ । १४५। अदृश्यं परोक्षम् , अधिकमधिरूढं तदर्थयोरुत्तरपदयो बहुव्रीही सहस्य सः स्यात् । साग्निः कपोतः, सद्रोणा खारी ॥ १४५ ॥
अकालेऽव्ययीभावे । ३।२ । १४६ । अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे सः स्यात्। सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाणं शेते। अव्ययीभाव इति किम् ? सहयुध्वा ।। १४६ ॥
ग्रन्थाऽन्ते । ३।२।१४७ एतद्वाच्युत्तरपदे सहस्याव्ययीभावेसः स्यात्। सकलं ज्योतिषमधीते ॥ १४७ ॥
नाऽऽशिष्यगो-वत्स-हले । ३ ।२।१४८/ गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात्। स्वस्ति गुरवे सहशिष्याय। आशिषीति किम् ? सपुत्रः।गवादिवर्जनं किम् ?स्वस्ति तुभ्यं सगवे, सहगवे। सवत्माय, सहवत्साय। सहलाय, सहहलाय ॥१४८॥
समानस्य धर्माऽऽदिषु । ३ । २ । १४९।। धमादीवुत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥ १४९ ॥