________________
. स्वोपज्ञलघुवृत्तिः [१८७]
अल्पे । ३ । २ । १३६ । ईषदर्थस्य कोरुत्तरपदे का स्यात्। कामधुरम्, काऽच्छम् ॥ १३६ ॥
का-कवौ वोष्णे । ३ । २ । १३७ । उष्णे उत्तरपदे कोः काकवौ वा स्याताम् । कोष्णम्, कवोष्णम् । पक्षे यथाप्राप्तमिति । तत्पुरुषे, कदुष्णम् । बहुव्रीही, कूष्णो देशः ।। १३७ ॥
कृत्येऽवश्यमो लुक् । ३ । २ । १३८ । कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यं लावकः ।। १३८॥
समः तत-हिते वा । ३ । २ । १३९ । तते हिते चोत्तरपदे समो लुग् वा स्यात् । सततम्, सन्ततम् । सहितम्, संहितम् ॥ १३९ ॥ - तुमश्च मनः कामे । ३ । २ । १४०।
तुम्समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तु. मनाः, गन्तुकामः समनाः, सकामः ॥ १४० ॥ मांसस्यानड्-घत्रि पचि नवा । ३ । २।१४१ ।
अनड्घजन्ते पचावुत्तरपदे मांसस्य लुग् वा स्यात् । मांस्पचनम् , मांसपचनम् । मांस्पाकः, मांसपाकः ॥१४१॥ दिक्शब्दात् तीरस्य तारः । ३ । २ । १४२ ।
अस्मात् परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम्, दक्षिणतीरम् ॥ १४२ ॥