SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ [१८६] हैमशब्दानुशासनस्य _ नखादयः । ३।२। १२८ एते अकृताकाराद्यादेशा निपात्यन्ते । नखः, नासत्यः ॥१२८॥ अन् स्वरे । ३ । २ । १२९ । स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥ १२९॥ कोः कत्तत्पुरुषे । ३।२।१३०। .. स्वरादाबुत्तरपदे कोस्तत्पुरुषे कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः। स्वर इत्येव ? कुब्राह्मण ॥१३०॥ स्थ वदे । ३ । २ । १३१॥ रथे वदे चोत्तरपदे कोः कद् स्यात् । कद्रथः, कद्वदः ॥१३१॥ तृणे जातौ । ३ । २ । १३२॥ जातावर्थे तृणे उत्तरपदे कोः कद् स्यात् । कत्तृणा रोहिषाख्या तृणजातिः ॥ १३२ ॥ कत्त्रिः । ३।२ । १३३।। कोः किमो वा त्राबुत्तरपदे कद् स्यात्। कत्त्रयः॥१३३॥ काऽक्ष-पथोः । ३ । २ । १३४ । अनयोरुत्तरपदयोः कोः का स्यात् । काऽक्षः, कापथम् ॥१३४॥ पुरुषे वा । ३ । २ । १३५। पुरुषे उत्तरपदे कोः का वास्यात्। कापुरुषः, कुपुरुषः॥१३५॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy