________________
स्वोपज्ञलघुवृत्तिः [१८५] सर्वादि-विश्वग्-देवाद् डदिःकयञ्चौ । ३ । २ । १२२ ।
सर्वादेर्विष्वग्देवाभ्यां च परतः क्विषन्ते अश्वावुत्तरपदे डदिरन्तः स्यात् । सर्वद्रीचः, द्वयद्रयङ्, कद्रयङ्, विष्वद्रयङ्, देवद्रयङ्, । क्वीति किम् ? विष्वगंचनम् ॥१२२ ॥
सह-समः सध्रि-समि । ३ । २ । १२३ । अनयोः स्थाने क्विषन्ते अश्चाबुत्तरपदे यथासंख्यं सधिसमी स्याताम् । सध्यङ्, सम्यङ् । क्वयश्चावित्येव ? सहाश्चनम् ॥ १२३ ॥
तिरसस्तियति । ३ । २ । १२४ । अकारादौ क्विवन्तेऽश्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्य । अतीति किम् ? तिरथः ॥ १२४ ॥
नञ् अत् । ३ । २ । १२५ । उत्तरपदेपरेनञ् अस्यात्। अचौरः पन्थाः। उत्तरपद इत्येव ? न भुङ्क्ते ॥ १२५॥
त्यादौ क्षेपे । ३ । २ । १२६ । त्याद्यन्ते पदे परे निन्दायां गम्यमानायां नञ् अः स्यात् । अपचसि त्वं जाल्म ! ।क्षेप इति किम् ? न पचति चैत्रः ॥ १२६ ॥
नगोऽप्राणिनि वा । ३ । २ । १२७ । अप्राणिन्यर्थे नगो वा निपात्यते । नगः, अगो गिरिः। अप्राणिनीति किम् ? अगोऽयं शीतेन ॥१२७॥
१ सर्वमञ्चतीति सर्वव्यङ्, द्वितीयाबहुवचनं सर्वदीचः तिर्यङ्घदूपाणि स्युः। डित्वादिलोपः। स्त्रीयां तु सर्वद्रोची, रूपाणि तु तिरश्चीवत् ।
२४