SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ [१८४] हैमशब्दानुशासनस्य भद्रोष्णात करणे । ३ । २ । ११६ । आभ्यां परः करणे उत्तरपदे मोऽन्तः स्यात । भद्रंकरणम्, उष्णंकरणम् ॥ ११६ ॥ नवाखित् कृदन्ते रात्रे | ३ | २ | ११७ । खिर्जे कृदन्ते उत्तरपदे परे रार्मोऽन्तो वा स्यात् । रात्रिश्चरः, रात्रिचरः । खिद्वर्जनमिति किम् ? रात्रिमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥ ११७॥ धेनोमव्यायाम । ३ । २ । ११८।। धेनो व्यायामुत्तरपदे मोऽन्तो वा स्यात् । धेनुम्भव्या, धेनुभव्या ॥ ११८ ॥ अषष्ठीतृतीयादन्याद् दोऽर्थे । ३ । २ । ११९ । __ अषष्ठयन्ताद् अतृतीयान्ताचान्यादर्थे उत्तरपदे दू अन्तो वा स्यात् । अन्यदर्थः अन्याः । षष्ठयादिवर्जनं किम् ? अन्यस्यान्येन वाऽर्थोऽन्यार्थः ।। ११९ ॥ आशाराशाऽऽस्थिताऽऽस्थात्सुकोतिरागे ।३।२।१२०॥ एषूत्तरपदेषु अषष्ठीतृतीयादन्याद् द् अन्तः स्यात् । अन्यदाशीः, अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्यदुत्सुकः, अन्यदूतिः, अन्यद्रागः । अषष्ठीतृतीयादित्येव ? अन्यस्य अन्येन वा आशीः अन्याशीः ।।१२० ॥ ईयकारके । ३ । २ । १२१ । __ अन्याद ईये प्रत्यये कारके चोत्तरपदे दोऽन्तः स्यात् । अन्यदीयः अन्यत्कारकः ॥१२१॥ .
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy