SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ [१८१] हैमशब्दानुशासनस्य पादशब्दः । पन्निष्कः, पादनिष्कः। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः ॥ ९८॥ नस नासिकायाः तः -क्षुद्रे । ३ । २ । ९९ । नासिकायास्तस्प्रत्यये क्षुद्रे चोत्तरपदे नस् स्यात् । नस्तः, नाक्षुद्रः ॥ ९९ ॥ . येऽवणे । ३ । २ । १००। नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम् । अवर्ण इति किम् ? नासिक्यो वर्णः ॥१०० ॥ शिरसः शीर्षन । ३ । २ । १०१। शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव ? शिरस्तः, शिरस्यति ॥१०१॥ __केशे वा।३ । २ । १०२ । शिरसः केशविषये ये प्रत्यये शीर्षन वा स्यात् । शीर्षण्याः, शिरस्याः केशाः ॥१०२ ।। शीर्षः स्वरे तद्धिते । ३ । २ । १०३ । शिरसः स्वरादौ तद्धिते शीर्षः स्यात् । हास्तिशीर्षिः शीर्षिकः ॥ १०३॥ उदकस्योदः पेषं-धि-वास-वाहने । ३ । २ । १०४ । उदकस्य पेषमादावुत्तरपदे उदः स्यात् । उदपेषं पिनष्टि, उदधिर्घटः, उदवासः उदवाहनः ॥१०४॥ वैकव्यञ्जने पूर्ये । ३ । २ । १०५ । उदकस्यासंयुक्तव्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy