SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ [१८०] हैमशब्दानुशासनस्य चत्वारिंशदादौ वा । ३ । २ । ९३ । द्वित्यष्टानां प्राक्शताचत्वारिंशदादावुत्तरपदे यथासंख्यं द्वात्रयोऽष्टा वा स्युः, अनशीतिबहुव्रीहौ । द्वाच. त्वारिंशत्, द्विचत्वारिंशत् । त्रयश्चत्वारिंशत्, त्रिच. त्वारिंशत् । अष्टाचत्वारिंशत् , अष्टचत्वारिंशत् ॥ ९३ ॥ हृदयस्य हृत्, लास-लेखाऽण-ये । ३।२। ९४ । अस्य लासलेखयोरुत्तरपद्योरणि ये च प्रत्यये हृत् स्यात् । हृल्लासः, हृल्लेखः, हाईम्, हृद्यः ॥ ९४ ॥ .. पदः पादस्याऽज्याऽति-गोपहते । ३ । २।९५। पादस्याज्यादावुत्तरपदे पदः स्यात् । पदाजिः, पदातिः, पदगः, पदोपहतः ॥९५ ॥ हिम-हति-काषि-ये पद् । ३ । २ १९६। हिमादावुत्तरपदे ये च प्रत्यये पादस्य पद् स्यात् । पद्धिमम्, पद्धतिः, पत्काषी, पद्याः शर्कराः ॥ ९६ ॥ ऋचः शसि । ३ । ९७। ऋचां पादस्य शादौ शस्प्रत्यये पद स्यात् । पच्छो गायत्री शंसति । ऋच इति किम् ? पादशः श्लोकं वक्ति । द्विःशपाठात् स्यादिशसि न स्यात्, ऋचः पादान् पश्य ॥९७॥ शब्द-निष्क-घोष-मिश्रे वा । ३ । २ । ९८ । शब्दादावुत्तरपदे पादस्य पद् वा स्यात् । पच्छब्दः, १ पादाभ्यामजति, अतति, गच्छति, उपहत इति पदाजिः, पदातिः, पदगः पदोपहतः । २ पादौ विध्यन्ति पद्याः शर्कराः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy