________________
स्वोपज्ञलघुवृत्तिः [१७९ ]
दस्ति । ३ । २१८८। - दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीतम्, वीतम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ।। ८८॥
अपील्वादेवहे । ३ । २ । ८९ । पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तदपदे दीर्घः स्यात् । ऋषीवहम्, मुनीवहम् । अपील्वादेरिति किम् ? पीलुबहम्, दारुवहम् ॥ ८९ ॥
शुनः । ३ । २ । ९०। अस्योत्तरपदे दीर्घः स्यात् । श्वादन्तः, श्वावराहम् ॥१०॥ एकादश-षोडश-षोडन-घोढा-षड्ढा । ३ । २ । ९१ ।
एकादयो दशादिषु कतदीर्घत्वादयो निपात्यन्ते । एकादश, षोडश, षदन्ता.अस्य षोडन् , षोढा, षडढा : ॥९१ ।। दियष्टानां दा-त्रयोऽष्टाः प्राक्शताद्, अनशीति
बहुव्रीहौ । ३ । २ । ९२ । एषां यथासंख्यमेते प्राक्शतात् संख्यायामुत्तरपदे स्युः, नत्वशीती बहुव्रीहिविषये च। द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् । प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥९२ ॥
१ तकारादिरादेशः ।
२ षोडन्शब्दस्य षोडत् षोडन्तौ षोडन्तः । षोडता षोडद्भय-मिति पचद्वद्रूपाणि स्युः । स्त्रियां षोडतीत्यत्यस्य नदीवत् । धाप्रत्यये षोढा । षड्ढा इति तु षड् दधातीति ढे प्रत्यये सिध्यति ।