________________
हैमशब्दानुशासनस्य
चितेः कचि । ३ । २ । ८३ | चितेः कचि दीर्घः स्यात् । एकचितीकः ॥ ८३ ॥
[१७८]
स्वामिचिह्नस्याऽविष्टाऽष्ट-पञ्च-भिन्न-छिन्न-च्छिद्रस्रुव-स्वस्तिकस्य कर्णे । ३ । २ । ८४ |
स्वामी चिह्नयते येन तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घः स्यात् । दांत्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः ॥ ८४ ॥
गतिकारकस्य नहि वृति वृषि-व्याधि-रुचि -सहिनौ क्वौ । ३ । २ । ८५ ।
गतिकारकयोर्नद्यादौ क्कियन्ते उत्तरपदे दीर्घः स्यात् । उपानत्, नीवृत्, प्रावृ, श्वावित्, नीरुक्, ऋतीषट्, जलासद्, परीतत् ॥ ८५ ॥
घन्युपसर्गस्य बहुलम् । ३ । २ । ८६ ।
घञन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः, नीवारः । बाहुलकात् क्वचिद्वा, प्रतीवेशः, प्रतिवेशः । क्वचिन्न, विषादः, निषादः ॥ ८६ ॥ नामिनः काशे । ३ । २ । ८७ ।
नाम्यन्तस्योपसर्गस्याजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः, वीकाशः । नामिन इति किम् ? प्रकाशः
112011
१ दात्रं चिह्न कर्णे यस्य स पशुर्दात्राकर्णः । पञ्चकर्ण इत्यादिषु न दीर्घत्वं, तेषां विष्टादिमध्यगत्वात् ।