SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ १७७] कोटर मिश्रक-सिक-पुर-सारिकस्य वणे | ३|२|७६ | एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कोटरावणम्, मिश्रकावणम्, सिध्रकावणम्, पुरगावणम्, सारिकावणम् ।। ७६ ।। अञ्जनादीनां गिरौ । ३ । २ | ७७ | एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः, कुक्कुटागिरिः ॥ ७७ ॥ अनजिरादिबहुस्वर - शरादीनां मतौ | ३ | २|७८| अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती, शरावती, वंशावती । अनजिरादीति किम् ? अजिरवती, हिरण्यवती ॥ ७८ ॥ ऋषौ विश्वस्य मित्रे | ३ | २ | ७९ । ऋषावर्षे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥ ७९ ॥ नरे । ३ । २ । ८० | नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ॥ ८० ॥ वसु-राटोः | ३ | २ | ८१ । अनयोरुत्तरपदयोर्विश्वस्य दीर्घः स्यात् । विश्वावसुः, विश्वराट् ॥ ८१ ॥ वलव्यपित्रादेः । ३ । २ । ८२ । वलच्प्रत्यये पित्रादिवर्णानां दीर्घः स्यात् । आसुतीवलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः ॥८२॥ २३
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy