SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ __ [१७६] हैमशब्दानुशासनस्य जोतीयेकार्थेऽच्वेः।३।२७०। महतोऽच्च्यन्तस्य जातीयरि ऐकायें चोत्तदपदे डाः स्यात् । महाजातीयः, महावीरः। जातीयैकार्थ्य इति किम् ? महत्तरः । अच्वेरिति किम् ? महद्भता कन्या ॥ ७० ॥ न पुम्वनिषेधे । ३।२ । ७१ । महतः पुम्वनिषेधविषये उत्तरपदे डानस्यात्। महतीप्रियः ॥७१॥ इच्यस्वरे दीर्घआच्च । ३।२। ७२। .. इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वं आच्च स्यात्। मुष्टीमुष्टि, मुष्टामुष्टि। अस्वर इति किम् ? अस्यसि ॥७२॥ हविष्यष्टनः कपाले। ३।२।७३। . हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घः स्यात् । अष्टाकपालं हविः। हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ।। ७३॥ , गवि युक्ते । ३ । २ । ७४। युक्तेऽर्थे गव्युत्तरपदेऽष्टनो दीर्घः स्यात् । अष्टागवं शकटम् । युक्त इति किम् ? अष्टगुश्चैत्रः ॥ ७४ ।। नाम्नि । ३ । २ । ७५। अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः। नाम्नीति किम् ? अष्टदंष्ट्रः ॥ ७५ ॥ १ "प्रकारे जातीयर् " (.-२-७५) इति सूत्रेण जातीयरप्रत्ययः । महान् प्रकारोऽस्य स महाजातीयः, स्त्रियां तु महाजातीया । एवं पटुजातीयः । महाश्चासौ वीरश्च महावीर इत्येकार्थस्योदाहरणम् । महती कीर्तिरस्य स महाकीर्तिरित्याद्यपि वेद्यम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy