SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१७५] ह्मणिगोत्रा, गार्गिमता, गौरिहता ।। ६४ ॥ . __ भोगवत्-गौरिमतो म्नि। ३ । २ । ६५ । अनयोयन्तयोः संज्ञायां तरादिषु प्रत्ययेषु बुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् । भोगवतितरा, गौरिमतितमा, भौगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली, भोगवतिगोत्रा, गौरिमतिमता, भोगवतिहता । नाम्नीति किम् ? भोगवतितरा, भोगवत्तरा, भोगवतीतरा ॥६५॥ नवकस्वराणाम् । ३ । २। ६६ । एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे ध्येकार्थे वा हृस्वः स्यात् । स्त्रितरा, स्त्रीतरा । ज्ञितरा, ज्ञीतरा । ज्ञितमा, ज्ञीतमा । जिब्रवा, ज्ञीबुवा । एकस्वराणामिति किम् ? कुटीतराः ॥ ६६ ॥ ऊड: । ३।२।६७। । ऊङन्तस्य तरादौ चोत्तरपदे ख्येकार्थे वा हृस्वः स्यात्। ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा । कद्रुब्रुवा, कद्रूब्रुवा ॥६७ ।। महतः कर-घास-विशिष्टे डाः । ३। २ । ६८ ॥ करादावुत्तरपदे महतोडा वा स्यात् । महाकरः, महकरः। महाघासः, महद्घासः। महाविशिष्टः, महद्विशिष्टः॥६८ ॥ स्त्रियाम् । ३ । २ । ६९ । स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यंडाः स्यात्। महाकरः, महाघासः, महाविशिष्टः ॥६९ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy