________________
[१७४] हैमशब्दानुशासनस्य
मृगक्षीराऽऽदिषु वा । ३ । २ । ६२ । एषु समासेषु परतः स्त्री उत्तरपदे पुम्बद्वा स्यात् । मृगक्षीरम् , मृगीक्षीरम् । काकशावः, काकीशावः ॥६२।। ऋदुदित तर-तम-रूप-कल्प-त्रुव-चेलगोत्र मत-हते
वा हस्वश्च । ३ । २ । ६३ । ऋदुदीत्परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्न्ये. कार्थे उत्तरपदे हस्वान्तः पुम्वच्च वा स्यात् । पचन्तितरापचत्तरा, पचन्तीतरा। श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा । श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा। पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा। विदुषिरूपा, विद्वद्रूपा, विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा। विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा। श्रेयसिकल्पा, श्रेयस्कल्पा, श्रेयसीकल्पा। पचन्तिब्रुवा, पचब्रुवा, पचन्तीबुवा । श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीबुवा । पचन्तिचेली, पचचेली, पचन्तीचेली। श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचदगोत्रा, पचन्तीगोत्रा । श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । पचन्तिमता, पचन्मता, पचन्तीमता। श्रेयसि. मता, श्रेयोमता, श्रेयसीमता। पचन्तिहता, पचद्धता, पचन्तीहता । श्रेयसिहता, श्रेयोहता, श्रेयसीहता ॥३॥
यः । ३। २ । ६४। यन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु बुवादिषु चोत्तरपदेषु एकार्थे हृस्वः स्यात् । गौरितरा, गौरितमा, नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्रा