SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१७३] . स्वाङ्गाद् डीऑतिश्चाऽमानिनि । ३ । २ । ५६ । स्वाङ्गाद्यो ङीस्तदन्तो जातिवाची च परतः स्त्री पुम्बन्न स्यात्, न तु मानिनि। दीर्घकेशीभार्यः, कठीभार्यः, शूद्राभार्यः। स्वाङ्गादिति किम् ? पटुभार्यः। अमानिनीति किम् ? दीर्घकेशमानिनी ॥ ५६ ॥ पुम्वत् कर्मधारये । ३।२। ५७ । परतः स्त्री अनूङ् कर्मधारये सति स्न्येकार्थे उत्तरपदे परे पुम्वत् स्यात्। कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ॥ ५७ ॥.. रिति । ३ । २ । ५८। परतः स्त्री अनूङ् रिति प्रत्यये पुम्वत् स्यात् । पटुजातीया, कठदेशीया ॥ ५८॥ त्व-ते गुणः । ३।२। ५९ । . ... परतः स्न्यनूङ् गुणवचनस्त्वतयोः प्रत्ययोः पुम्वत् स्यात्। पटुत्वम्, पटुता। गुण इति किम् ? कठीत्वम् ।।५९॥ त्वौ कचित् । ३ । २ । ६० । परतः ज्यनूङ् च्चो क्वचित् पुम्वत् स्यात् । महद्भूता कन्या । क्वचिदिति किम् ? गोमतीभूता ॥ ६ ॥ सर्वादयोऽस्यादौ । ३ । २ १६१। . सर्वादिः परतः, स्त्री पुम्वत् स्यात्, न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ॥६१॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy