________________
[१७२] हैमशब्दानुशासनस्य
जातिश्च णि-तद्धितय-स्वरे । ३ । २ । ५१ ।
अन्या परतः स्त्रीजातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुम्वत् स्याद् अनूङ । पटयति, एत्यः, भावत्कम् । जातिः, दारयः, गार्गः । तद्धितति किम् ? हस्तिनीयति, हस्तिन्यः ॥५१॥ .
एयेऽग्नायी । ३ । २ । ५२ । एयप्रत्ययेऽग्नाय्येव परतः स्त्री पुम्वत् स्यात् । आग्नेयः। पूर्वेण सिद्धे नियमार्थमिदम् । श्यैनेयः ॥ ५२ ॥
नाए प्रियाऽऽदौ । ३ । २ । ५३ । अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुम्वन्न स्यात् । कल्याणीपश्चमा रात्रयः, कल्याणीप्रियः। अप्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः ॥५३ ।। - तद्धिताऽककोपान्त्यपूरण्याख्याः। ३ । २ । ५४ ।
तद्धितस्याकप्रत्ययस्य च क उपान्त्यो यासां ताः पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री पुम्वन्न स्युः । मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः, । तद्धिताकेति किम् ? पाकभार्यः ॥५४॥ तद्धितः स्वरवृद्धिहेतुररक्त-विकारे । ३ । २ । ५५ । ___ रक्तविकाराभ्यामन्यार्थः स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री पुम्वन्न स्यात् । माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थ. भार्यः । अरक्तविकार इति किम् ? काषायबृहतिकः, लोहेयः ॥ ५५॥
१ णौ परे पटयति। एन्यां साघुरेत्य इति तद्धितयकारे परे सिध्यति । भावत्कमिति तद्धितस्वरपरस्य निदर्शनम् ।