SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ १७१ ] दिवस-दिवः पृथिव्यां वा । ३ । २ । ४५ । देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ, दिवःपृथिव्यौ यावापृथिव्यौ ॥ ४५ ॥ उषासोषसः । ३ । २ । ४६ । देवताद्वन्द्वे उबस उत्तरपदे उषासा स्यात् । उवासासूर्यम् ॥ ४६ ॥ मातरपितरं वा । ३ । २ । ४७ । मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः मातापित्रोः ॥ ४७ ॥ वर्चस्कादिष्ववस्करादयः । ३ । २ । ४८ । एष्वर्थेष्वेते कृतशषसाद्युत्तरपदाः साधवः स्युः । अवस्करोsन्नमलम्, अवकारोऽन्यः । अपस्करो रथाङ्गम्, अपकरोऽन्यः ॥ ४८ परतः स्त्री पुम्वत् रूयेकार्थेऽनूङ् । ३ । २ । ४९ । परतो विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्त रपदे पुम्वत् स्यात्, न तुङन्तः । दर्शनीय भार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः कल्याणीमाता । अनूङिति किम् ? करभोरुभार्यः ॥ ४९ ॥ क्यङ्-मानिपित्तद्धिते । ३ | २ | ५० | क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनू पुम्वत् स्यात् । श्येतायते, दर्शनीयमानी अयमस्याः, अजथ्यं यूथम् ॥ ५० ॥ १ पकरेति तद्धितप्रत्यये परेsपि पुम्वत् स्यादित्यर्थः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy