SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ [१७०] हैमशब्दानुशासनस्य मातापितरौ । ऋतामित्येव ? गुरुशिष्यो । विद्यायोनिसम्बन्ध इत्येव ? कर्तृकारयितारौ ॥ ३९ ॥ पुत्रे । ३ । २ । ४० पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ, होतापुत्रौ ॥४०॥ .. वेदसहश्रुताऽवायुदेवतानाम् । ३।२ । ४१ । एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आः स्यात्। इन्द्रासोमौ। वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुतेति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वायवनी । देवतानामिति किम् यूपचषालौ ॥४१॥ ई: पोमचरुणेऽग्नेः । ३ । २ । ४२ । वेदसहश्रुतावायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरीः स्यात् । षोमेति निर्देशाद् ईयोगे षत्वं च । अग्नी. षोमो, अग्नीवरुणौ । देवताद्वन्द्व इत्येव ? अग्निसोमो घटू ॥४२॥ इवृद्धिमत्यविष्णौ । ३।२।४३ । विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरिः स्यात् । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आग्नावैष्णवं चरुं निर्वपेत् ॥ ४३ ॥ दिवो द्यावा। ३ । २ । ४४ । देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभुमी ॥४४॥ ४ बटुः पुनर्माणवकः (३-४७७) इति हैमः। वट वेष्टने धातोर्निष्पन्नः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy