SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिा .... [१६९] 'देवानांप्रियः । ३ । २ । ३४ । अत्र षष्ठथा लुध न स्यात् । देवानांप्रियः ॥३४॥ शेप-पुच्छ-लाङ्ग्रलेषु नाम्नि शुनः । ३।२।३५। शुनः परस्याः पष्ठयाः पादावुत्तरपदे संज्ञायां लु न स्यात् । शुनःशेषः, शुनःपुच्छः, शुनोल शूलकः ॥३५ ।। वाचस्पति-वास्तोष्पति-दिवस्पति-दिवो दासम् । ३।२।३६ । एते समासाः षष्ठयपि निपात्यन्ते नाम्नि । वाव. स्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवोदासः ॥ ३६ ।। ऋतां विद्या-योनिसम्बन्धे । ३।२३७ । ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ठयास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुःपुत्रः, पितुःपुत्रः, पितुरन्तेवासी। ऋतामिति किम् ? आचार्यपुत्रः। विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् ॥ ३७॥ - स्वसृ-पत्योर्वा । ३ । २ । ३८। विद्ययोनिसम्बन्धनिमित्तानामृदन्तानां षष्ठयाः स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्धनिमित्तयोलुब्वान स्यात्। होतुःस्वसा, होतृस्वसा । स्वसुःपतिः, स्वसृपतिः । विचायोनिसम्बन्ध इत्येव ? भर्तृस्वसा, होतृपतिः ॥३८॥ आ द्वन्द्वे । ३।२।३९।। विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तरपदे पूर्वपदस्याऽऽत् स्यात् । होतापोतारो, १ देवानांप्रियो-मूर्खः सरलश्च । व्याकरणान्तरेषु तु मूर्खार्थ एव निपात्यते । २ शुनः शेपमिव शेषमस्येति शुनशेपः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy