________________
.. [१६८] हैमशब्दानुशासनस्य
यु-प्रावट्-वर्षा-शरत् कालात् । ३ । २ । २७ । एभ्यः परस्याः सप्तम्या ये उत्तरपदे लुब् न स्यात्, दिविजः,प्रावृषिजः, वर्षासुजः, शरदिजः कालेजः ॥२७।।
अपो य-योनि-मति-चरे । ३ । २ । २८ ।
अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लुब् न स्यात् । अप्सव्यः, अप्सुयोनिः, अपसुमतिः, अप्सुचरः ।। २८ ॥ .
नेन-सिद्ध-स्थे । ३।२ । २९ । इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोनं लुब् न स्यात्, भवत्येवेत्यर्थः । स्थण्डिलवत्तौ, साङ्काश्यसिद्धः समस्थः ॥२९॥
षष्ट्याः क्षेपे । ३ । २।३०। उत्तरपदे परे क्षेपे गम्ये षष्ठया लुब् न स्यात् । चौरस्यकुलम् ॥३०॥
पुत्रे वा । ३ । २ । ३१ । पुत्रे उत्तरपदे क्षेपे षष्ठया लुब् वा न स्यात् । दास्याः पुत्रः, दासीपुत्रः ॥३१॥ पश्यत्वाग्-दिशा हर-युक्ति-दण्डे । ३।२।३२।
एभ्यः परस्याः षष्ठया यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः, वाचोयुक्तिः, दिशोदण्डः ॥३२॥
अदसोऽकलायनणोः । ३ । २ । ३३ । अदसः परस्याः षष्ठया अकविषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका, आमुष्यायणः ॥३३॥ १ अपमु भब इति “ दिगादिदेहांशाद् यः" इति सूत्राद् यः । उकार.स्य च यः।