SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१६७ ] सप्तम्या कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूशिखः, मस्तकशिखः । अकाम इति किम् ? मुखकामः ॥ २२॥ बन्धे घत्रि नवा । ३ । २ । २३ । बन्धे घान्ते उत्तरपदे अव्यञ्जनात् परस्याः सप्तम्या लुब् वा न स्यात् । हस्तेबन्धः हस्तबन्धः चक्रेबन्धः चक्रवन्धः । घनीति किम् ? अजन्ते, हस्तवन्धः ॥२३॥ कालात् तन-तर-तम-काले । ३ । २ । २४ । अव्यञ्जनान्तात् कालवाचिनः परस्याः सप्तम्यास्तना. दिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात्। पूर्वाणैतनः, पूर्वाहणतनः । पूर्वाह्नतराम्, पूर्वाह्नतरे । पूर्वाह्नतमाम्, पूर्वागतमे । पूर्वाणेकाले, पूर्वाणकाले । कालादिति किम् ? शुक्लतरे, शुक्लतमे । अद्वयञ्जनादित्येव ? रात्रितरायाम् ॥ २४ ॥ शय-वासिचासेष्वकालात् । ३ । २।२५ । - अकालवाचिनोऽव्यञ्जनात् परस्याः सप्तम्या एषूत्तरपदेषु लुब् वा न स्यात् । बिलेशयः, बिलशयः। वनेवासी, वनवासी। ग्रामेवासः, ग्रामवासः । अकालादिति किम् ? पूर्वाह्नशयः ॥२५॥ वर्ष-क्षर-वराप्सरः-शरोरस-मनसो जे । ३ । २ । २६ । एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्यात्। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। वरेजः, वरजः । अप्सुजम्, अब्जम् । सरसिजम् , सरोजम्, । शरेजम्, शरजम् । उरसिजः, उरोजः । मनसिजा, मनोजः ॥२६॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy