________________
[१६६] हैमशब्दानुशासनस्य
पराऽऽत्मभ्यां । ३ । २ । १७। आभ्यां परस्य डेवचनस्योत्तरपदे परे नाम्नि लुब् न स्यात् । परस्मैपदम् , आत्मनेपदम् । नाम्नीत्येव ? परहितम् ॥१७॥ अद्-व्यन्जनात् सप्तम्या बहुलम् । ३ । २।१८।
अदन्ताद्वयञ्जनान्ताच परस्याः सप्तम्या बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलकाः, युधिष्ठिरः। अद्वयञ्जनादिति किम् ? भूमिपाशः । नाम्नीत्येव ? तीर्थकाकः ॥१८॥
प्राक्कारस्य व्यञ्जने । ३ । २ । १९ । राजलभ्यो रक्षानिर्वेशः कारः। प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानायामद्वयञ्जनात् परस्याः सप्तम्या व्यञ्जनादाबुत्तरपदे लुब् न स्यात् । मुकुटेकापिणः, समिधिमाषकः। प्रागिति किम्?यूथपशुः। उदीचामयं न प्राचां। कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? अविकटोरणः ॥ १९ ॥
तत्पुरुषे कृति । ३ । २ । २० । अद्वयञ्जनात् परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ? धन्वकारकः । अद्वयञ्जनादित्येव ? कुरुचरः ॥२०॥
मध्यान्ताद् गुरौ । ३। ३ । २१ । आभ्यां परस्याःसप्तम्या गुराबुत्तरपदेलुब् न स्यात्। मध्येगुरुः, अन्तेगुरुः ॥ २१ ॥ अमूर्द्ध-मस्तकात् स्वाङ्गादकामे । ३ । २।२२ । मूर्द्धमस्तकवर्जात् स्वाङ्गवाचिनोऽव्यञ्जनात् परस्याः १ युधिष्टिर इति व्यन्जनान्तस्योदाहरणम् , युध् इत्यस्य धकारान्तत्वात् ।