________________
स्वोपज्ञलघुवृत्तिः [१६५] स्तोकान्मुक्तः। असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव ? निःस्तोकः ॥ १०॥
ब्राह्मणाच्छंसी । ३ । २ । ११ । अत्र समासे उसेलबभावो निपात्यते। ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥ ११ ॥ ओजो-इजः-सहो-ऽम्भस्-तमस-तपसः टः ।३।२।१२।
एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम् , अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम् । द इति किम् ? ओजोभावः ॥ १२॥
पुम्-जनुषोऽनुजान्धे । ३ । २ । १३ । पुञ्जनुभ्या परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् , पुंसाऽनुजः, जनुषाऽन्यः । ट इत्येव ? पुमनुजा ॥ १३ ॥
आत्मनः पूरणे । ३ । २ । १४ । अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः, आत्मनाषष्ठः ॥ १४ ॥
मनसश्वाऽऽज्ञायिनि । ३ । २ । १५ । मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लबू न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥ १५ ॥
नाम्नि । ३ । २।१६। मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुबू न स्यात्। मनसादेवी । नानीति किम् ? मनोदत्ता कन्या ॥१६॥