SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१६४ ] ऋद्ध-नदी-वंश्यस्य । ३ । २ । ५। एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम्, उन्मत्तगङ्गम् , एकविंशतिभारद्वाज वसति ॥५॥ अनतो लुप् । ३ । २।६। अदन्तवर्जस्याव्ययीभावस्य स्यादेलप् स्यात्। उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव ? प्रियोपवधुः ॥ ६॥ अव्ययस्य । ३ । २।७। अव्ययस्य स्यादेर्लुप् स्यात् । स्वः, प्रातः। अव्ययस्येति किम् ? अत्युच्चैसः ॥७॥ ऐकायें । ३ । २ । । ऐकार्थ्यमैकपद्यं तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः, पुत्रीयति, औपगवः । अत एव लुविधानाद नाम नाम्नेत्युक्तावपि स्याद्यन्तानां समासः स्यात्। ऐकार्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ॥ ८॥ न नाम्येकस्वरात् खित्युत्तरपदेऽमः । ३ । २।९। समासारम्भकमन्त्यं पदमुत्तरपदं तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्या मो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः । नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? स्त्रीमानी ॥९॥ असत्त्वे उसेः । ३ । २ । १० । असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy