SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयः पादः ॥ परस्परा-न्योऽन्येतरेतरस्याम् स्यादेर्वा ऽपुंसि | ३ |२| १ | एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परं, अन्योऽन्यां अन्योऽन्यं, इतरेतरां इतरेतरं भोजयतः । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योऽन्यां अन्योऽन्येन, इतरेतरां इतरेतरेण भो ज्यते । अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति 11 2 11 अम् अव्ययीभावस्यातोऽपञ्चम्याः । ३ । २ । २ । अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः। उपकुम्भमस्ति, उपकुम्भं देहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि । अपञ्चम्या इति किम् ? उपकुम्भात् ॥ २ ॥ वा तृतीयायाः । ३ । २ । ३ । अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किन्न उपकुम्भम्, किन्न उपकुम्मेन । अव्ययीभावस्येति किम् ? प्रियोपकुम्भेन ॥ ३ ॥ सप्तम्या वा । ३ । २ । ४। अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे निधेहि । अव्ययीभावस्येत्येव ? प्रियोपकुम्भे ॥ ४ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy